Sukta 4.5
अध द्युतानः पित्रोः सचासामनुत गुह्यं चारु पृश्नेः । मातुष्पदे परमे अन्ति षद्गोर्वृष्णः शोचिषः प्रयतस्य जिह्वा ॥
अध॑ द्युता॒नः पि॒त्रोः सचा॒साम॑नुत॒ गुह्यं॒ चारु॒ पृश्ने॑: । मा॒तुष्प॒दे प॑र॒मे अन्ति॒ षद्गोर्वृष्ण॑: शो॒चिष॒: प्रय॑तस्य जि॒ह्वा ॥
ádha dyutānáḥ pitróḥ sacā́ āsā́ ámanuta guhyám cā́ru pṛ́śneḥ | mātuṣpáde paramé ánti ṣád gór vṛ́ṣṇaḥ śóciṣaḥ práyatasyá jihvā́ ||
Then the Shining One, close to the two Parents, perceived the secret and beautiful (working) of Pr̥śni. In the supreme seat of the Mother he sat near: the tongue of the impelling Flame of the Bull within the Cow—(Agni) the radiant power set in right motion.
अध॑ । द्यु॒ता॒नः । पि॒त्रोः । सचा॑ । आ॒सा । अम॑नुत । गुह्य॑म् । चारु । पृश्नेः॑ । मा॒तुः । प॒दे । प॒र॒मे । अन्ति॑ । सत् । गोः । वृष्णः॑ । शो॒चिषः॑ । प्रऽय॑तस्य । जि॒ह्वा ॥अध । द्युतानः । पित्रोः । सचा । आसा । अमनुत । गुह्यम् । चारु । पृश्नेः । मातुः । पदे । परमे । अन्ति । सत् । गोः । वृष्णः । शोचिषः । प्रयतस्य । जिह्वा ॥adha | dyutānaḥ | pitroḥ | sacā | āsā | amanuta | guhyam | cāru | pṛśneḥ | mātuḥ | pade | parame | anti | sat | goḥ | vṛṣṇaḥ | śociṣaḥ | pra-yatasya | jihvā