Sukta 4.49
सोममिन्द्राबृहस्पती पिबतं दाशुषो गृहे । मादयेथां तदोकसा ॥
सोम॑मिन्द्राबृहस्पती॒ पिब॑तं दा॒शुषो॑ गृ॒हे । मा॒दये॑थां॒ तदो॑कसा ॥
sómam indrābṛhaspatī píbataṁ dāśúṣo gṛhé | mā́dayethāṁ tádokasā ||
Drink the Soma, O Indra and Bṛhaspati, in the home of the giver; rejoice there in that dwelling—make it your settled seat within us.
सोम॑म् । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ । पिब॑तम् । दा॒शुषः॑ । गृ॒हे । मा॒दये॑थाम् । तत्ऽओ॑कसा ॥सोमम् । इन्द्राबृहस्पती इति । पिबतम् । दाशुषः । गृहे । मादयेथाम् । तत्ओकसा ॥somam | indrābṛhaspatī iti | pibatam | dāśuṣaḥ | gṛhe | mādayethām | tat-okasā