Sukta 4.49
इदं वामास्ये हविः प्रियमिन्द्राबृहस्पती । उक्थं मदश्च शस्यते ॥
इ॒दं वा॑मा॒स्ये॑ ह॒विः प्रि॒यमि॑न्द्राबृहस्पती । उ॒क्थं मद॑श्च शस्यते ॥
idáṃ vām āsyè havíḥ priyám indrā-bṛ́haspatī | uktháṃ mádaś ca śasyate ||
This is the dear offering set for your mouths, O Indra and Bṛhaspati; and the uplifted hymn and the ecstasy are being proclaimed.
इ॒दम् । वा॒म् । आ॒स्ये॑ । ह॒विः । प्रि॒यम् । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ । उ॒क्थम् । मदः॑ । च॒ । श॒स्य॒ते॒ ॥इदम् । वाम् । आस्ये । हविः । प्रियम् । इन्द्राबृहस्पती इति । उक्थम् । मदः । च । शस्यते ॥idam | vām | āsye | haviḥ | priyam | indrābṛhaspatī iti | uktham | madaḥ | ca | śasyate