Sukta 4.48
वहन्तु त्वा मनोयुजो युक्तासो नवतिर्नव । वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥
वह॑न्तु त्वा मनो॒युजो॑ यु॒क्तासो॑ नव॒तिर्नव॑ । वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥
váhantu tvā mano-yújo yuktā́so navatír náva | vāyavā candréṇa ráthena yā́hi sutásya pītáye ||
Let the mind-yoked steeds, ninety and nine, carry you. O Vāyu, come with your shining chariot to the drinking of the pressed Soma.
वह॑न्तु । त्वा॒ । म॒नः॒ऽयुजः॑ । यु॒क्तासः॑ । न॒व॒तिः । नव॑ । वायो॒ इति॑ । आ । च॒न्द्रेणे॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥वहन्तु । त्वा । मनःयुजः । युक्तासः । नवतिः । नव । वायो इति । आ । चन्द्रेणे । रथेन । याहि । सुतस्य । पीतये ॥vahantu | tvā | manaḥ-yujaḥ | yuktāsaḥ | navatiḥ | nava | vāyo iti | ā | candreṇe | rathena | yāhi | sutasya | pītaye