Sukta 4.48
वायो शतं हरीणां युवस्व पोष्याणाम् । उत वा ते सहस्रिणो रथ आ यातु पाजसा ॥
वायो॑ श॒तं हरी॑णां यु॒वस्व॒ पोष्या॑णाम् । उ॒त वा॑ ते सह॒स्रिणो॒ रथ॒ आ या॑तु॒ पाज॑सा ॥
vāyo śatáṃ hárīṇāṃ yuvásva póṣyāṇām | utá vā te sahasríṇo rátha ā́ yātu pā́jasā ||
O Vāyu, take joy in the hundred bright steeds of increase; or else let your thousand-fold chariot come here with its blazing force.
वायो॒ इति॑ । श॒तम् । हरी॑णाम् । यु॒वस्व॑ । पोष्या॑णाम् । उ॒त । वा॒ । ते॒ । स॒ह॒स्रिणः॑ । रथः॑ । आ । या॒तु॒ । पाज॑सा ॥वायो इति । शतम् । हरीणाम् । युवस्व । पोष्याणाम् । उत । वा । ते । सहस्रिणः । रथः । आ । यातु । पाजसा ॥vāyo iti | śatam | harīṇām | yuvasva | poṣyāṇām | uta | vā | te | sahasriṇaḥ | rathaḥ | ā | yātu | pājasā