Sukta 4.48
अनु कृष्णे वसुधिती येमाते विश्वपेशसा । वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥
अनु॑ कृ॒ष्णे वसु॑धिती ये॒माते॑ वि॒श्वपे॑शसा । वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥
ánu kṛṣṇé vasu-dhitī yēmā́te víśva-peśasā | vāyavā candréṇa ráthena yā́hi sutásya pītáye ||
Following the dark ones, the two treasuries of richness extend with all their forms; O Vāyu, come with your shining chariot to the drinking of the pressed Soma.
अनु॑ । कृ॒ष्णे । वसु॑धिती॒ इति॒ वसु॑ऽधिती । ये॒माते॒ इति॑ । वि॒श्वऽपे॑शसा । वायो॒ इति॑ । आ । च॒न्द्रेणे॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥अनु । कृष्णे । वसुधिती इति वसुधिती । येमाते इति । विश्वपेशसा । वायो इति । आ । चन्द्रेणे । रथेन । याहि । सुतस्य । पीतये ॥anu | kṛṣṇe | vasudhitī itivasu-dhitī | yemāteiti | viśva-peśasā | vāyo iti | ā | candreṇe | rathena | yāhi | sutasya | pītaye