Sukta 4.48
निर्युवाणो अशस्तीर्नियुत्वाँ इन्द्रसारथिः । वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥
नि॒र्यु॒वा॒णो अश॑स्तीर्नि॒युत्वाँ॒ इन्द्र॑सारथिः । वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥
nír-yuvāṇó áśastīr niyútvāṃ índra-sārathiḥ | vāyavā candréṇa ráthena yā́hi sutásya pītáye ||
Casting out the falsehoods, yoked with ordered energies, with Indra as charioteer—O Vāyu, come with your shining chariot to the drinking of the pressed Soma.
निः॒ऽयु॒वा॒नः । अश॑स्तीः । नि॒युत्वा॑न् । इन्द्र॑ऽसारथिः । वायो॒ इति॑ । आ । च॒न्द्रेणे॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥निःयुवानः । अशस्तीः । नियुत्वान् । इन्द्रसारथिः । वायो इति । आ । चन्द्रेणे । रथेन । याहि । सुतस्य । पीतये ॥niḥ-yuvānaḥ | aśastīḥ | niyutvān | indra-sārathiḥ | vāyo iti | ā | candreṇe | rathena | yāhi | sutasya | pītaye