Sukta 4.47
वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती । नियुत्वन्ता न ऊतय आ यातं सोमपीतये ॥
वाय॒विन्द्र॑श्च शु॒ष्मिणा॑ स॒रथं॑ शवसस्पती । नि॒युत्व॑न्ता न ऊ॒तय॒ आ या॑तं॒ सोम॑पीतये ॥
vāyav índraś ca śuṣmíṇā sa-rátham śavasaspatī | niyútvantā na ūtáya ā yātáṃ sóma-pītaye ||
O Vāyu and Indra, lords of force, come together on one chariot with your might; yoked with ordered energies, come for our help, come to the drinking of Soma.
वायो॒ इति॑ । इन्द्रः॑ । च॒ । शु॒ष्मिणा॑ । स॒ऽरथ॑म् । श॒व॒सः॒ । प॒ती॒ इति॑ । नि॒युत्व॑न्ता । नः॒ । ऊ॒तये॑ । आ । या॒त॒म् सोम॑ऽपीतये ॥वायो इति । इन्द्रः । च । शुष्मिणा । सरथम् । शवसः । पती इति । नियुत्वन्ता । नः । ऊतये । आ । यातम् सोमपीतये ॥vāyo iti | indraḥ | ca | śuṣmiṇā | sa-ratham | śavasaḥ | patī iti | niyutvantā | naḥ | ūtaye | ā | yātam soma-pītaye