Sukta 4.47
इन्द्रश्च वायवेषां सोमानां पीतिमर्हथः । युवां हि यन्तीन्दवो निम्नमापो न सध्र्यक् ॥
इन्द्र॑श्च वायवेषां॒ सोमा॑नां पी॒तिम॑र्हथः । यु॒वां हि यन्तीन्द॑वो नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥
índraś ca vāyav eṣā́ṃ sómānāṃ pītím arhathaḥ | yuvā́ṃ hí yántīndavo nímnam ā́po ná sadhryàk ||
Indra and Vāyu, you two are worthy of the drinking of these Soma-waves; for to you the drops move irresistibly, like waters running to the downward hollow—straight to their destined place.
इन्द्रः॑ । च॒ । वा॒यो॒ इति॑ । ए॒षा॒म् । सोमा॑नाम् । पी॒तिम् । अ॒र्ह॒थः॒ । यु॒वाम् । हि । यन्ति॑ । इन्द॑वः । नि॒म्नम् । आपः॑ । न । स॒ध्र्य॑क् ॥इन्द्रः । च । वायो इति । एषाम् । सोमानाम् । पीतिम् । अर्हथः । युवाम् । हि । यन्ति । इन्दवः । निम्नम् । आपः । न । सध्र्यक् ॥indraḥ | ca | vāyo iti | eṣām | somānām | pītim | arhathaḥ | yuvām | hi | yanti | indavaḥ | nimnam | āpaḥ | na | sadhryak