Sukta 4.47
वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु । आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥
वायो॑ शु॒क्रो अ॑यामि ते॒ मध्वो॒ अग्रं॒ दिवि॑ष्टिषु । आ या॑हि॒ सोम॑पीतये स्पा॒र्हो दे॑व नि॒युत्व॑ता ॥
vāyo śukró ayāmi te mádhvo ágraṃ divíṣṭiṣu | ā yāhi sóma-pītaye spārhó deva niyútvātā ||
O Vāyu, luminous Power, I bring to you the first essence of delight among the heavenward strivings. Come here to the drinking of Soma—desirable God—yoked with your ordered steeds of force.
वायो॒ इति॑ । शु॒क्रः । अ॒या॒मि॒ । ते॒ । मध्वः॑ । अग्र॑म् । दिवि॑ष्टिषु । आ । या॒हि॒ । सोम॑ऽपीतये । स्पा॒र्हः । दे॒व॒ । नि॒युत्व॑ता ॥वायो इति । शुक्रः । अयामि । ते । मध्वः । अग्रम् । दिविष्टिषु । आ । याहि । सोमपीतये । स्पार्हः । देव । नियुत्वता ॥vāyo iti | śukraḥ | ayāmi | te | madhvaḥ | agram | diviṣṭiṣu | ā | yāhi | soma-pītaye | spārhaḥ | deva | niyutvatā