Sukta 4.45
आकेनिपासो अहभिर्दविध्वतः स्वर्ण शुक्रं तन्वन्त आ रजः । सूरश्चिदश्वान्युयुजान ईयते विश्वाँ अनु स्वधया चेतथस्पथः ॥
आ॒के॒नि॒पासो॒ अह॑भि॒र्दवि॑ध्वत॒: स्व१॒॑र्ण शु॒क्रं त॒न्वन्त॒ आ रज॑: । सूर॑श्चि॒दश्वा॑न्युयुजा॒न ई॑यते॒ विश्वाँ॒ अनु॑ स्व॒धया॑ चेतथस्प॒थः ॥
ā́ke-nipā́so áhābhir dávīdhvataḥ svaḥ́ na śukráṃ tanvántā ā́ rájaḥ | sū́raś cid áśvān yuyujānā́ īyate víśvān ánu svadháyā cetathaḥ páthaḥ ||
With sharp-pointed forces, day after day, you drive forward—spreading a radiant brightness like heaven through the mid-world. Even the Sun, yoking his steeds, moves on; and by your own inherent power you make all the paths of movement to become conscious and rightly guided.
आ॒के॒ऽनि॒पासः॑ । अह॑ऽभिः । दवि॑ध्वतः । स्वः॑ । न । शु॒क्रम् । त॒न्वन्तः॑ । आ । रजः॑ । सूरः॑ । चि॒त् । अश्वा॑न् । यु॒यु॒जा॒नः । ई॒य॒ते॒ । विश्वा॑न् । अनु॑ । स्व॒धया॑ । चे॒त॒थः॒ । प॒थः ॥आकेनिपासः । अहभिः । दविध्वतः । स्वः । न । शुक्रम् । तन्वन्तः । आ । रजः । सूरः । चित् । अश्वान् । युयुजानः । ईयते । विश्वान् । अनु । स्वधया । चेतथः । पथः ॥āke--nipāsaḥ | aha-bhiḥ | davidhvataḥ | svaḥ | na | śukram | tanvantaḥ | ā | rajaḥ | sūraḥ | cit | aśvān | yuyujānaḥ | īyate | viśvān | anu | svadhayā | cetathaḥ | pathaḥ