Sukta 4.45
स्वध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते प्रति वस्तोरश्विना । यन्निक्तहस्तस्तरणिर्विचक्षणः सोमं सुषाव मधुमन्तमद्रिभिः ॥
स्व॒ध्व॒रासो॒ मधु॑मन्तो अ॒ग्नय॑ उ॒स्रा ज॑रन्ते॒ प्रति॒ वस्तो॑र॒श्विना॑ । यन्नि॒क्तह॑स्तस्त॒रणि॑र्विचक्ष॒णः सोमं॑ सु॒षाव॒ मधु॑मन्त॒मद्रि॑भिः ॥
svadhvarā́so mádhumanto agnáya usrā́ jarante práti vástoḥ aśvínā | yán níkta-hastas taraṇír vi-cakṣaṇáḥ sómam suṣā́va mádhumantam ádri-bhiḥ ||
O Aśvins, at the coming of the dawn the well-ordered fires, rich with the sweetness of delight, awake and glow towards the Day. For then the discerning and swift power, with hands made skilful for the work, presses out the honeyed Soma with the pressing-stones—distilling an inner nectar for the journey.
सु॒ऽअ॒ध॒रासः॑ । मधु॑ऽमन्तः । अ॒ग्नयः॑ । उ॒स्रा । ज॒र॒न्ते॒ । प्रति॑ । वस्तोः॑ । अ॒श्विना॑ । यत् । नि॒क्तऽह॑स्तः । त॒रणिः॑ । वि॒ऽच॒क्ष॒णः । सोम॑म् । सु॒साव॑ । मधु॑ऽमन्तम् । अद्रि॑ऽभिः ॥सुअधरासः । मधुमन्तः । अग्नयः । उस्रा । जरन्ते । प्रति । वस्तोः । अश्विना । यत् । निक्तहस्तः । तरणिः । विचक्षणः । सोमम् । सुसाव । मधुमन्तम् । अद्रिभिः ॥su-adharāsaḥ | madhu-mantaḥ | agnayaḥ | usrā | jarante | prati | vastoḥ | aśvi nā | yat | nikta-hastaḥ | taraṇiḥ | vi-cakṣaṇaḥ | somam | susāva | madhu-mantam | adri-bhiḥ