Sukta 4.45
हंसासो ये वां मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः । उदप्रुतो मन्दिनो मन्दिनिस्पृशो मध्वो न मक्षः सवनानि गच्छथः ॥
हं॒सासो॒ ये वां॒ मधु॑मन्तो अ॒स्रिधो॒ हिर॑ण्यपर्णा उ॒हुव॑ उष॒र्बुध॑: । उ॒द॒प्रुतो॑ म॒न्दिनो॑ मन्दिनि॒स्पृशो॒ मध्वो॒ न मक्ष॒: सव॑नानि गच्छथः ॥
haṃsā́so yé vāṁ mádhu-manto asrídho híraṇya-parṇā uhúva uṣár-budhaḥ | udá-pruto mandíno mandi-nispṛ́śo mádhvo na mákṣaḥ sávānāni gacchathaḥ ||
Like swans, honey-full and unerring, with golden wings, awakened with the dawn, leaping up from the waters—joyous, touching joy—like bees of honey you go to the Soma-pressings.
हं॒सासः॑ । ये । वा॒म् । मधु॑ऽमन्तः॑ । अ॒स्रिधः॑ । हिर॑ण्यऽपर्णाः । उ॒हुवः॑ । उ॒षः॒ऽबुधः॑ । उ॒द॒ऽप्रुतः॑ । म॒न्दिनः॑ । म॒न्दि॒ऽनि॒स्पृशः॑ । मध्वः॑ । न । मक्षः॑ । सव॑नानि । ग॒च्छ॒थः॒ ॥हंसासः । ये । वाम् । मधुमन्तः । अस्रिधः । हिरण्यपर्णाः । उहुवः । उषःबुधः । उदप्रुतः । मन्दिनः । मन्दिनिस्पृशः । मध्वः । न । मक्षः । सवनानि । गच्छथः ॥haṃsāsaḥ | ye | vām | madhu-mantaḥ | asridhaḥ | hiraṇya-parṇāḥ | uhuvaḥ | uṣaḥ-budhaḥ | uda-prutaḥ | mandinaḥ | mandi-nispṛśaḥ | madhvaḥ | na | makṣaḥ | savanāni | gacchathaḥ