Sukta 4.45
मध्वः पिबतं मधुपेभिरासभिरुत प्रियं मधुने युञ्जाथां रथम् । आ वर्तनिं मधुना जिन्वथस्पथो दृतिं वहेथे मधुमन्तमश्विना ॥
मध्व॑: पिबतं मधु॒पेभि॑रा॒सभि॑रु॒त प्रि॒यं मधु॑ने युञ्जाथां॒ रथ॑म् । आ व॑र्त॒निं मधु॑ना जिन्वथस्प॒थो दृतिं॑ वहेथे॒ मधु॑मन्तमश्विना ॥
mádhvaḥ pibataṁ madhu-pébhir ā́sa-bhir utá priyáṁ mádhune yuñjāthāṁ rátham | ā́ vartaníṁ mádhunā jinvathas pathó dṛ́tiṁ vahethe mádhu-mantam aśvinā ||
Drink of the honey with honey-drinking mouths, and yoke the chariot for the beloved honey. With honey you quicken the turning-track of the paths; you carry the honey-filled skin, O Aśvins.
मध्वः॑ । पि॒ब॒त॒म् । म॒धु॒ऽपेभिः॑ । आ॒सऽभिः॑ । उ॒त । प्रि॒यम् । मधु॑ने । यु॒ञ्जा॒था॒म् । रथ॑म् । आ । व॒र॒निम् । मधु॑ना । जि॒न्व॒थः॒ । प॒थः । दृति॑म् । व॒हे॒थे॒ इति॑ । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ ॥मध्वः । पिबतम् । मधुपेभिः । आसभिः । उत । प्रियम् । मधुने । युञ्जाथाम् । रथम् । आ । वरनिम् । मधुना । जिन्वथः । पथः । दृतिम् । वहेथे इति । मधुमन्तम् । अश्विना ॥madhvaḥ | pibatam | madhu-pebhiḥ | āsa-bhiḥ | uta | priyam | madhune | yuñjāthām | ratham | ā | varanim | madhunā | jinvathaḥ | pathaḥ | dṛtim | vahetheiti | madhu-mantam | aśvinā