Sukta 4.45
उद्वां पृक्षासो मधुमन्त ईरते रथा अश्वास उषसो व्युष्टिषु । अपोर्णुवन्तस्तम आ परीवृतं स्वर्ण शुक्रं तन्वन्त आ रजः ॥
उद्वां॑ पृ॒क्षासो॒ मधु॑मन्त ईरते॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टिषु । अ॒पो॒र्णु॒वन्त॒स्तम॒ आ परी॑वृतं॒ स्व१॒॑र्ण शु॒क्रं त॒न्वन्त॒ आ रज॑: ॥
úd vāṁ pṛkṣā́so mádhu-manta īrate ráthā aśvā́sa uṣáso vyùṣṭiṣu | apó-ūrṇuvántas táma ā́ parī́vṛtaṁ svàr na śukráṁ tanvántā ā́ rájaḥ ||
Upward move your honey-full steeds and chariots in the breakings of Dawn; they unwrap the darkness that has covered all around, and they stretch out the bright heaven-light across the mid-space.
उत् । वा॒म् । पृ॒क्षासः॑ । मधु॑ऽमन्तः । ई॒र॒ते॒ । रथाः॑ । अश्वा॑सः । उ॒षसः॑ । विऽउ॑ष्टिषु । अ॒प॒ऽऊ॒र्णु॒वन्तः॑ । तन्मः॑ । आ । परि॑ऽवृतम् । स्वः॑ । न । शु॒क्रम् । त॒न्वन्तः॑ । आ । रजः॑ ॥उत् । वाम् । पृक्षासः । मधुमन्तः । ईरते । रथाः । अश्वासः । उषसः । विउष्टिषु । अपऊर्णुवन्तः । तन्मः । आ । परिवृतम् । स्वः । न । शुक्रम् । तन्वन्तः । आ । रजः ॥ut | vām | pṛkṣāsaḥ | madhu-mantaḥ | īrate | rathāḥ | aśvāsaḥ | uṣasaḥ | vi-uṣṭi ṣu | apa-ūrṇuvantaḥ | tanmaḥ | ā | pari-vṛtam | svaḥ | na | śukram | tanvantaḥ | ā | rajaḥ