Sukta 4.45
एष स्य भानुरुदियर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि । पृक्षासो अस्मिन्मिथुना अधि त्रयो दृतिस्तुरीयो मधुनो वि रप्शते ॥
ए॒ष स्य भा॒नुरुदि॑यर्ति यु॒ज्यते॒ रथ॒: परि॑ज्मा दि॒वो अ॒स्य सान॑वि । पृ॒क्षासो॑ अस्मिन्मिथु॒ना अधि॒ त्रयो॒ दृति॑स्तु॒रीयो॒ मधु॑नो॒ वि र॑प्शते ॥
eṣá syá bhānúr úd iyarti yujyáte ráthaḥ pári-jmā divó asyá sānavi | pṛkṣā́so asmín mithunā́ ádhi tráyo dṛ́tis turī́yo mádhuno ví rapśate ||
This radiance rises; the all-circling chariot is yoked upon the ridge of heaven. Here the paired steeds are set; three skins and a fourth of honey are spread out in their fullness.
ए॒षः । स्यः । भा॒नुः । उत् । इ॒य॒र्ति॒ । यु॒ज्यते॑ । रथः॑ । परि॑ऽज्मा । दि॒वः । अ॒स्य । सान॑वि । पृ॒क्षासः॑ । अ॒स्मि॒न् । मि॒थु॒नाः । अधि॑ । त्रयः॑ । दृतिः॑ । तु॒रीयः॑ । मधु॑नः । वि । र॒प्श॒ते॒ ॥एषः । स्यः । भानुः । उत् । इयर्ति । युज्यते । रथः । परिज्मा । दिवः । अस्य । सानवि । पृक्षासः । अस्मिन् । मिथुनाः । अधि । त्रयः । दृतिः । तुरीयः । मधुनः । वि । रप्शते ॥eṣaḥ | syaḥ | bhānuḥ | ut | iyarti | yujyate | rathaḥ | pari-jmā | divaḥ | asya | sānavi | pṛkṣāsaḥ | asmin | mithunāḥ | adhi | trayaḥ | dṛtiḥ | turīyaḥ | madhunaḥ | vi | rapśate