Sukta 4.42
अहं राजा वरुणो मह्यं तान्यसुर्याणि प्रथमा धारयन्त । क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥
अ॒हं राजा॒ वरु॑णो॒ मह्यं॒ तान्य॑सु॒र्या॑णि प्रथ॒मा धा॑रयन्त । क्रतुं॑ सचन्ते॒ वरु॑णस्य दे॒वा राजा॑मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ॥
aháṃ rājā́ váruṇo máhyaṃ tā́ny asuryā́ṇi prathamā́ dhārayanta | krátum sacante váruṇasya devā́ rājāmi kṛṣṭér upamásya vavréḥ ||
I am king Varuṇa; for me the primal Asuric powers upheld those mighty workings. The gods cleave to Varuṇa’s will; I rule the peoples, wrapped in the supreme encompassing.
अ॒हम् । राजा॑ । वरु॑णः । मह्य॑म् । तानि॑ । अ॒सु॒र्या॑णि । प्र॒थ॒मा । धा॒र॒य॒न्त॒ । क्रतु॑म् । स॒च॒न्ते॒ । वरु॑णस्य । दे॒वाः । राजा॑मि । कृ॒ष्टेः । उ॒प॒मस्य॑ । व॒व्रेः ॥अहम् । राजा । वरुणः । मह्यम् । तानि । असुर्याणि । प्रथमा । धारयन्त । क्रतुम् । सचन्ते । वरुणस्य । देवाः । राजामि । कृष्टेः । उपमस्य । वव्रेः ॥aham | rājā | varuṇaḥ | mahyam | tāni | asuryāṇi | prathamā | dhārayanta | kratum | sacante | varuṇasya | devāḥ | rājāmi | kṛṣṭeḥ | upamasya | vavreḥ