Sukta 4.4
इह त्वा भूर्या चरेदुप त्मन्दोषावस्तर्दीदिवांसमनु द्यून् । क्रीळन्तस्त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवांसो जनानाम् ॥
इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन्दोषा॑वस्तर्दीदि॒वांस॒मनु॒ द्यून् । क्रीळ॑न्तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वांसो॒ जना॑नाम् ॥
ihá tvā bhū́ry ā́ cared úpa tmán doṣā́vastar dīdivā́ṃsam ánu dyū́n | krī́ḷantas tvā sumánasaḥ sapemā́bhí dyumnā́ tasthivā́ṃso jánānām ||
Here may abundant strength move toward you; may it come near the self, O shining one, through nights and days. Playing with you in a happy mind, may we follow—standing in the luminous powers among men.
इ॒ह । त्वा॒ । भूरि॑ । आ । च॒रे॒त् । उप॑ । त्मन् । दोषा॑ऽवस्तः । दी॒दि॒वांस॑म् । अनु॑ । द्यून् । क्रीळ॑न्तः । त्वा॒ । सु॒ऽमन॑सः । स॒पे॒म॒ । अ॒भि । द्यु॒म्ना । त॒स्थि॒वांसः॑ । जना॑नाम् ॥इह । त्वा । भूरि । आ । चरेत् । उप । त्मन् । दोषावस्तः । दीदिवांसम् । अनु । द्यून् । क्रीळन्तः । त्वा । सुमनसः । सपेम । अभि । द्युम्ना । तस्थिवांसः । जनानाम् ॥iha | tvā | bhūri | ā | caret | upa | tman | doṣāvastaḥ | dīdivāṃsam | anu | dyūn | krīḷantaḥ | tvā | su-manasaḥ | sapema | abhi | dyumnā | tasthivāṃsaḥ | janānām