Sukta 4.4
अर्चामि ते सुमतिं घोष्यर्वाक्सं ते वावाता जरतामियं गीः । स्वश्वास्त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेरनु द्यून् ॥
अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाक्सं ते॑ वा॒वाता॑ जरतामि॒यं गीः । स्वश्वा॑स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ॥
arcā́mi te sumatíṃ ghóṣy arvā́k sáṃ te vāvā́tā jaratām iyáṃ gī́ḥ | sváśvā́s tvā suráthā marjayemā́sme kṣatrā́ṇi dhārayér ánu dyū́n ||
I sing your right guidance aloud and near; this song, growing old, keeps sounding for you. May we polish you as having good steeds and a good chariot; and may you hold for us the powers of mastery through the days.
अर्चा॑मि । ते॒ । सु॒ऽम॒तिम् । घोषि॑ । अ॒र्वाक् । सम् । ते॒ । व॒वाता॑ । ज॒र॒ता॒म् । इ॒यम् । गीः । सु॒ऽअश्वाः॑ । त्वा॒ । सु॒ऽरथाः॑ । म॒र्ज॒ये॒म॒ । अ॒स्मे इति॑ । क्ष॒त्राणि॑ । धा॒र॒येः॒ । अनु॑ । द्यून् ॥अर्चामि । ते । सुमतिम् । घोषि । अर्वाक् । सम् । ते । ववाता । जरताम् । इयम् । गीः । सुअश्वाः । त्वा । सुरथाः । मर्जयेम । अस्मे इति । क्षत्राणि । धारयेः । अनु । द्यून् ॥arcāmi | te | su-matim | ghoṣi | arvāk | sam | te | vavātā | jaratām | iyam | gīḥ | su-aśvāḥ | tvā | su-rathāḥ | marjayema | asme iti | kṣatrāṇi | dhārayeḥ | anu | dyūn