Sukta 4.4
यस्त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन । तस्य त्राता भवसि तस्य सखा यस्त आतिथ्यमानुषग्जुजोषत् ॥
यस्त्वा॒ स्वश्व॑: सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न । तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग्जुजो॑षत् ॥
yás tvā sváśvaḥ suhiraṇyó agna upayā́ti vásumatā ráthena | tásya trātā́ bhavasi tásya sákhā yás ta ātithyám ānuṣág jujoṣat ||
He who comes to you, O Agni, with good steeds and bright riches on a chariot of plenitude—of him you become the protector, of him the friend, who has accepted your hospitality in the human way again and again.
यः । त्वा॒ । सु॒ऽअश्वः॑ । सु॒ऽहि॒र॒ण्यः । अ॒ग्ने॒ । उ॒प॒ऽयाति॑ । वसु॑ऽमता । रथे॑न । तस्य॑ । त्रा॒ता । भ॒व॒सि॒ । तस्य॑ । सखा॑ । यः । ते॒ । आ॒ति॒थ्यम् । आ॒नु॒षक् । जुजो॑षत् ॥यः । त्वा । सुअश्वः । सुहिरण्यः । अग्ने । उपयाति । वसुमता । रथेन । तस्य । त्राता । भवसि । तस्य । सखा । यः । ते । आतिथ्यम् । आनुषक् । जुजोषत् ॥yaḥ | tvā | su-aśvaḥ | su-hiraṇyaḥ | agne | upa-yāti | vasu-matā | rathena | tasya | trātā | bhavasi | tasya | sakhā | yaḥ | te | ātithyam | ānuṣak | jujoṣat