Sukta 4.4
सेदग्ने अस्तु सुभगः सुदानुर्यस्त्वा नित्येन हविषा य उक्थैः । पिप्रीषति स्व आयुषि दुरोणे विश्वेदस्मै सुदिना सासदिष्टिः ॥
सेद॑ग्ने अस्तु सु॒भग॑: सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः । पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सास॑दि॒ष्टिः ॥
séd agne astu subhágaḥ sudā́nur yás tvā nítyena havíṣā yá ukthaíḥ | piprī́ṣati svá ā́yuṣi duroṇé víśved asmai sudínā sā́sadi iṣṭíḥ ||
May he indeed be fortunate and rich in giving, O Agni—he who nourishes you with the constant offering and with hymns, who seeks to fill you in his own life and home. For him may every bright day come to sit, every fulfillment of the sacrifice.
सः । इत् । अ॒ग्ने॒ । अ॒स्तु॒ । सु॒ऽभगः॑ । सु॒ऽदानुः॑ । यः । त्वा॒ । नित्ये॑न । ह॒विषा॑ । यः । उ॒क्थैः । पिप्री॑षति । स्वे । आयु॑षि । दु॒रो॒णे । विश्वा॑ । इत् । अ॒स्मै॒ । सु॒ऽदिना॑ । सा । अ॒स॒त् । इ॒ष्टिः ॥सः । इत् । अग्ने । अस्तु । सुभगः । सुदानुः । यः । त्वा । नित्येन । हविषा । यः । उक्थैः । पिप्रीषति । स्वे । आयुषि । दुरोणे । विश्वा । इत् । अस्मै । सुदिना । सा । असत् । इष्टिः ॥saḥ | it | agne | astu | su-bhagaḥ | su-dānuḥ | yaḥ | tvā | nityena | haviṣā | yaḥ | ukthaiḥ | piprīṣati | sve | āyuṣi | duroṇe | viśvā | it | asmai | su-dinā | sā | asat | iṣṭiḥ