Sukta 4.4
स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुमैरत् । विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यर्यो वि दुरो अभि द्यौत् ॥
स ते॑ जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् । विश्वा॑न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो॑ अ॒भि द्यौ॑त् ॥
sá te jānāti sumatíṃ yaviṣṭha yá ī́vate bráhmaṇe gātúm áirat | víśvāny asmai sudínāni rāyó dyumnā́ny aryó ví dúro abhí dyaut ||
He knows your right-minded guidance, O youngest Fire—he who has found a path for the sacred Word. For him the noble power shines forth: all bright days of plenitude and luminous triumphs, opening wide the doors.
सः । ते॒ । जा॒ना॒ति॒ । सु॒ऽम॒तिम् । य॒वि॒ष्ठ॒ । यः । ईव॑ते । ब्रह्म॑णे । गा॒तुम् । ऐर॑त् । विश्वा॑नि । अ॒स्मै॒ । सु॒ऽदिना॑नि । रा॒यः । द्यु॒म्नानि॑ । अ॒र्यः । वि । दुरः॑ । अ॒भि । द्यौ॑त् ॥सः । ते । जानाति । सुमतिम् । यविष्ठ । यः । ईवते । ब्रह्मणे । गातुम् । ऐरत् । विश्वानि । अस्मै । सुदिनानि । रायः । द्युम्नानि । अर्यः । वि । दुरः । अभि । द्यौत् ॥saḥ | te | jānāti | su-matim | yaviṣṭha | yaḥ | īvate | brahmaṇe | gātum | airat | viśvāni | asmai | su-dināni | rāyaḥ | dyumnāni | aryaḥ | vi | duraḥ | abhi | dyaut