Sukta 4.4
तव भ्रमास आशुया पतन्त्यनु स्पृश धृषता शोशुचानः । तपूंष्यग्ने जुह्वा पतंगानसंदितो वि सृज विष्वगुल्काः ॥
तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः । तपूं॑ष्यग्ने जु॒ह्वा॑ पतं॒गानसं॑दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ॥
táva bhramā́sa āśú-yā patánty ánu spṛśa dhṛṣatá śóśucānaḥ | tapū́ṃṣy agne júhvā pataṅgā́n asam-ditó ví sṛja víṣvag ulkā́ḥ ||
Thy whirling flames fly swift; touch on, O bold one, blazing. O Agni, with thy ladle cast forth the burning winged ones; unbroken, send out thy firebrands in every direction.
तव॑ । भ्र॒मासः॑ । आ॒शु॒ऽया । प॒त॒न्ति॒ । अनु॑ । स्पृ॒श॒ । धृ॒ष॒ता । शोशु॑चानः । तपूं॑षि । अ॒ग्ने॒ । जु॒ह्वा॑ । प॒त॒ङ्गान् । अस॑म्ऽदितः । वि । सृ॒ज॒ । विष्व॑क् । उ॒ल्काः ॥तव । भ्रमासः । आशुया । पतन्ति । अनु । स्पृश । धृषता । शोशुचानः । तपूंषि । अग्ने । जुह्वा । पतङ्गान् । असम्दितः । वि । सृज । विष्वक् । उल्काः ॥tava | bhramāsaḥ | āśu-yā | patanti | anu | spṛśa | dhṛṣatā | śośucānaḥ | tapāūṃṣi | agne | juhvā | pataṅgān | asam-ditaḥ | vi | sṛja | viṣvak | ulkāḥ