Sukta 4.4
कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाँ इभेन । तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्ठैः ॥
कृ॒णु॒ष्व पाज॒: प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒ इभे॑न । तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ॥
kṛṇuṣvá pā́jaḥ prá-sitiṃ ná pṛthvī́ṃ yā́hi rājéva áma-vāṃ ibhéna | tṛṣvī́m ánu prá-sitiṃ drūṇānáḥ ástā́si vídhya rákṣasas tápiṣṭhaiḥ ||
Build up thy flaming might, a wide-ranging stride like the Earth; go forth like a king with his strong elephant-force. Following the thirsty onrush, rushing on, thou art the shooter—pierce the Rakṣasas with thy most burning powers.
कृ॒णु॒ष्व । पाजः॑ । प्रऽसि॑तिम् । न । पृ॒थ्वीम् । या॒हि । राजा॑ऽइव । अम॑ऽवान् । इभे॑न । तृ॒ष्वीम् । अनु॑ । प्रऽसि॑तिम् । द्रू॒णा॒नः । अस्ता॑ । अ॒सि॒ । विध्य॑ । र॒क्षसः॑ । तपि॑ष्ठैः ॥कृणुष्व । पाजः । प्रसितिम् । न । पृथ्वीम् । याहि । राजाइव । अमवान् । इभेन । तृष्वीम् । अनु । प्रसितिम् । द्रूणानः । अस्ता । असि । विध्य । रक्षसः । तपिष्ठैः ॥kṛṇuṣva | pājaḥ | pra-sitim | na | pṛthvīm | yāhi | rājāiva | ama-vān | ibhena | tṛṣvīm | anu | pra-sitim | drūṇānaḥ | astā | asi | vidhya | rakṣasaḥ | tapiṣṭhaiḥ