Sukta 4.4
प्रति स्पशो वि सृज तूर्णितमो भवा पायुर्विशो अस्या अदब्धः । यो नो दूरे अघशंसो यो अन्त्यग्ने माकिष्टे व्यथिरा दधर्षीत् ॥
प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः । यो नो॑ दू॒रे अ॒घशं॑सो॒ यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् ॥
práti spáśo ví sṛja tūrṇí-tamo bhávā pāyúr viśó asyā́ ádabdhaḥ | yó no dūrḗ aghá-śaṃso yó ánti agne mā́kiṣ te vyathír ā́ dadharṣīt ||
Send out the watchers against (the foe); become the swiftest, an unfailing protector of this people. Whether the ill-wisher is far or near, O Agni, let no distress that is thine assail us.
प्रति॑ । स्पशः॑ । वि । सृ॒ज॒ । तूर्णि॑ऽतमः । भव॑ । पा॒युः । वि॒शः । अ॒स्याः । अद॑ब्धः । यः । नः॒ । दू॒रे । अ॒घऽशं॑सः । यः । अन्ति॑ । अग्ने॑ । माकिः॑ । ते॒ । व्यथिः॑ । आ । द॒ध॒र्षी॒त् ॥प्रति । स्पशः । वि । सृज । तूर्णितमः । भव । पायुः । विशः । अस्याः । अदब्धः । यः । नः । दूरे । अघशंसः । यः । अन्ति । अग्ने । माकिः । ते । व्यथिः । आ । दधर्षीत् ॥prati | spaśaḥ | vi | sṛja | tūrṇi-tamaḥ | bhava | pāyuḥ | viśaḥ | asyāḥ | adabdhaḥ | yaḥ | naḥ | dūre | agha-śaṃsaḥ | yaḥ | anti | agne | mākiḥ | te | vyathiḥ | ā | dadharṣīt