Sukta 4.4
महो रुजामि बन्धुता वचोभिस्तन्मा पितुर्गोतमादन्वियाय । त्वं नो अस्य वचसश्चिकिद्धि होतर्यविष्ठ सुक्रतो दमूनाः ॥
म॒हो रु॑जामि ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑याय । त्वं नो॑ अ॒स्य वच॑सश्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ॥
mahó rujāmi bandhutā́ vacóbhis tán mā pitúr gotamā́d ánv iyāya | tváṃ no asyá vácasaś cikiddhi hótar yaviṣṭha sukrato damūnāḥ ||
With words I break open a great kinship; this has come to me following from my father Gotama. Do you take heed of this our utterance, O Hotar, youngest, clear-willed, lord of the house.
म॒हः । रु॒जा॒मि॒ । ब॒न्धुता॑ । वचः॑ऽभिः । तत् । मा॒ । पि॒तुः । गोत॑मात् । अनु॑ । इ॒या॒य॒ । त्वम् । नः॒ । अ॒स्य । वच॑सः । चि॒कि॒द्धि॒ । होतः॑ । य॒वि॒ष्ठ॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । दमू॑नाः ॥महः । रुजामि । बन्धुता । वचःभिः । तत् । मा । पितुः । गोतमात् । अनु । इयाय । त्वम् । नः । अस्य । वचसः । चिकिद्धि । होतः । यविष्ठ । सुक्रतो इति सुक्रतो । दमूनाः ॥mahaḥ | rujāmi | bandhutā | vacaḥ-bhiḥ | tat | mā | pituḥ | gotamāt | anu | iyāya | tvam | naḥ | asya | vacasaḥ | cikiddhi | hotaḥ | yaviṣṭha | sukrato itisu-krato | damūnāḥ