Sukta 4.4
अस्वप्नजस्तरणयः सुशेवा अतन्द्रासोऽवृका अश्रमिष्ठाः । ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्वमूर ॥
अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः । ते पा॒यव॑: स॒ध्र्य॑ञ्चो नि॒षद्याग्ने॒ तव॑ नः पान्त्वमूर ॥
ásvapnajas taraṇáyaḥ suśévā átandrāso 'vṛkā́ aśrámiṣṭhāḥ | té pā́yavaḥ sadhryáñco niṣádyāgne táva naḥ pāntu amūra ||
Born of wakefulness, swift and full of well-being, untiring, unwolfish, least given to fatigue—may those guardians, sitting close together, O Agni, protect us; yours are they, and they protect without delusion.
अस्व॑प्नऽजः । त॒रण॑यः । सु॒ऽशेवाः॑ । अत॑न्द्रासः । अ॒वृ॒काः । अश्र॑मिष्ठाः । ते । पा॒यवः॑ । स॒ध्र्य॑ञ्चः । नि॒ऽसद्य॑ । अ॒ग्ने॒ । तव॑ । नः॒ । पा॒न्तु॒ । अ॒मू॒र॒ ॥अस्वप्नजः । तरणयः । सुशेवाः । अतन्द्रासः । अवृकाः । अश्रमिष्ठाः । ते । पायवः । सध्र्यञ्चः । निसद्य । अग्ने । तव । नः । पान्तु । अमूर ॥asvapna-jaḥ | taraṇayaḥ | su-śevāḥ | atandrāsaḥ | avṛkāḥ | aśramiṣṭhāḥ | te | pāyavaḥ | sadhryañcaḥ | ni-sadya | agne | tava | naḥ | pāntu | amūra