Sukta 4.39
इन्द्रमिवेदुभये वि ह्वयन्त उदीराणा यज्ञमुपप्रयन्तः । दधिक्रामु सूदनं मर्त्याय ददथुर्मित्रावरुणा नो अश्वम् ॥
इन्द्र॑मि॒वेदु॒भये॒ वि ह्व॑यन्त उ॒दीरा॑णा य॒ज्ञमु॑पप्र॒यन्त॑: । द॒धि॒क्रामु॒ सूद॑नं॒ मर्त्या॑य द॒दथु॑र्मित्रावरुणा नो॒ अश्व॑म् ॥
índram ivéd ubháye ví hvayanta udī́rāṇā yajñám upaprayántaḥ | dadhikrā́m u sū́danaṃ mártyāya dadáthur mitrā́varuṇā no aśvám ||
As if calling Indra, both sides invoke, rising up and advancing toward the sacrifice. Mitra and Varuṇa have granted us for the mortal journey Dadhikrāvan, the impelling steed that drives us to victory.
इन्द्र॑म्ऽइव । इत् । उ॒भये॑ । वि । ह्व॒य॒न्ते॒ । उ॒त्ऽईरा॑णाः । य॒ज्ञम् । उ॒प॒ऽप्र॒यन्तः॑ । द॒धि॒ऽक्राम् । ऊँ॒ इति॑ । सूद॑नम् । मर्त्या॑य । द॒दथुः॑ । मि॒त्रा॒व॒रु॒णा॒ । नः॒ । अश्व॑म् ॥इन्द्रम्इव । इत् । उभये । वि । ह्वयन्ते । उत्ईराणाः । यज्ञम् । उपप्रयन्तः । दधिक्राम् । ऊँ इति । सूदनम् । मर्त्याय । ददथुः । मित्रावरुणा । नः । अश्वम् ॥indram-iva | it | ubhaye | vi | hvayante | ut-īrāṇāḥ | yajñam | upa-prayantaḥ | dadhi-krām | oṃ iti | sūdanam | martyāya | dadathuḥ | mitrāvaruṇā | naḥ | aśvam