Sukta 4.39
दधिक्राव्ण इष ऊर्जो महो यदमन्महि मरुतां नाम भद्रम् । स्वस्तये वरुणं मित्रमग्निं हवामह इन्द्रं वज्रबाहुम् ॥
द॒धि॒क्राव्ण॑ इ॒ष ऊ॒र्जो म॒हो यदम॑न्महि म॒रुतां॒ नाम॑ भ॒द्रम् । स्व॒स्तये॒ वरु॑णं मि॒त्रम॒ग्निं हवा॑मह॒ इन्द्रं॒ वज्र॑बाहुम् ॥
dadhikrā́vṇa iṣá ūrjó máho yád ámanmahi marútāṃ nā́ma bhadrám | svastáye váruṇaṃ mítram agníṃ havāmahe índraṃ vájrabāhum ||
Since we have grasped Dadhikrāvan as the great plenitude of nourishment and force, and have held the auspicious Name of the Maruts in consciousness, for our inner well-being we call Varuṇa and Mitra, Agni, and Indra of the thunderbolt-arm.
द॒धि॒ऽक्राव्णः॑ । इ॒षः । ऊ॒र्जः । म॒हः । यत् । अम॑न्महि । म॒रुता॑म् । नाम॑ । भ॒द्रम् । स्व॒स्तये॑ । वरु॑णम् । मि॒त्रम् । अ॒ग्निम् । हवा॑महे । इन्द्र॑म् । वज्र॑ऽबाहुम् ॥दधिक्राव्णः । इषः । ऊर्जः । महः । यत् । अमन्महि । मरुताम् । नाम । भद्रम् । स्वस्तये । वरुणम् । मित्रम् । अग्निम् । हवामहे । इन्द्रम् । वज्रबाहुम् ॥dadhi-krāvṇaḥ | iṣaḥ | ūrjaḥ | mahaḥ | yat | amanmahi | marutām | nāma | bhadram | svastaye | varuṇam | mitram | agnim | havāmahe | indram | vajra-bāhum