Sukta 4.39
यो अश्वस्य दधिक्राव्णो अकारीत्समिद्धे अग्ना उषसो व्युष्टौ । अनागसं तमदितिः कृणोतु स मित्रेण वरुणेना सजोषाः ॥
यो अश्व॑स्य दधि॒क्राव्णो॒ अका॑री॒त्समि॑द्धे अ॒ग्ना उ॒षसो॒ व्यु॑ष्टौ । अना॑गसं॒ तमदि॑तिः कृणोतु॒ स मि॒त्रेण॒ वरु॑णेना स॒जोषा॑: ॥
yó aśvásya dadhikrā́vṇo ákārīt sámiddhe agnā́ uṣáso vyùṣṭau | anā́gasaṃ tám áditiḥ kṛṇotu sá mitréṇa váruṇenā sajóṣāḥ ||
He who has fashioned the offering/act for Dadhikrāvan, the Horse-power, when Agni is kindled at the dawn’s wide opening—may Aditi make him without inner fault; may he live in one harmonious accord with Mitra and Varuṇa.
यः । अश्व॑स्य । द॒धि॒ऽक्राव्णः॑ । अका॑रीत् । सम्ऽइ॑द्धे । अ॒ग्नौ । उ॒षसः॑ । विऽउ॑ष्टौ । अना॑गसम् । तम् । अदि॑तिः । कृ॒णो॒तु॒ । सः । मि॒त्रेण॑ । वरु॑णेन । स॒ऽजोषाः॑ ॥यः । अश्वस्य । दधिक्राव्णः । अकारीत् । सम्इद्धे । अग्नौ । उषसः । विउष्टौ । अनागसम् । तम् । अदितिः । कृणोतु । सः । मित्रेण । वरुणेन । सजोषाः ॥yaḥ | aśvasya | dadhi-krāvṇaḥ | akārīt | sam-iddhe | agnau | uṣasaḥ | vi-uṣṭau | anāgasam | tam | aditiḥ | kṛṇotu | saḥ | mitreṇa | varuṇena | sa-joṣāḥ