Sukta 4.39
महश्चर्कर्म्यर्वतः क्रतुप्रा दधिक्राव्णः पुरुवारस्य वृष्णः । यं पूरुभ्यो दीदिवांसं नाग्निं ददथुर्मित्रावरुणा ततुरिम् ॥
म॒हश्च॑र्क॒र्म्यर्व॑तः क्रतु॒प्रा द॑धि॒क्राव्ण॑: पुरु॒वार॑स्य॒ वृष्ण॑: । यं पू॒रुभ्यो॑ दीदि॒वांसं॒ नाग्निं द॒दथु॑र्मित्रावरुणा॒ ततु॑रिम् ॥
maháś carkarmi árvataḥ kratúprā dadhikrā́vṇaḥ puruvā́rasya vṛ́ṣṇaḥ | yáṃ pūrúbhyo dīdivā́ṃsaṃ nā́gníṃ dádathur mitrā́varuṇā táturim ||
I proclaim the greatness of the steed Dadhikrāvan, the bull of many treasures, who fills the will with power. Him—shining like Fire—you, Mitra and Varuṇa, have given to the many peoples as the swift overcomer.
म॒हः । च॒र्क॒र्मि॒ । अर्व॑तः । क्र॒तु॒ऽप्राः । द॒धि॒ऽक्राव्णः॑ । पु॒रु॒ऽवार॑स्य । वृष्णः॑ । यम् । पू॒रुऽभ्यः॑ । दी॒दि॒ऽवांसम् । न । अ॒ग्निम् । द॒दथुः॑ । मि॒त्रा॒व॒रु॒णा॒ । ततु॑रिम् ॥महः । चर्कर्मि । अर्वतः । क्रतुप्राः । दधिक्राव्णः । पुरुवारस्य । वृष्णः । यम् । पूरुभ्यः । दीदिवांसम् । न । अग्निम् । ददथुः । मित्रावरुणा । ततुरिम् ॥mahaḥ | carkarmi | arvataḥ | kratu-prāḥ | dadhi-krāvṇaḥ | puru-vārasya | vṛṣṇaḥ | yam | pūru-bhyaḥ | dīdi-vāṃsam | na | agnim | dadathuḥ | mitrāvaruṇā | taturi m