Sukta 4.39
आशुं दधिक्रां तमु नु ष्टवाम दिवस्पृथिव्या उत चर्किराम । उच्छन्तीर्मामुषसः सूदयन्त्वति विश्वानि दुरितानि पर्षन् ॥
आ॒शुं द॑धि॒क्रां तमु॒ नु ष्ट॑वाम दि॒वस्पृ॑थि॒व्या उ॒त च॑र्किराम । उ॒च्छन्ती॒र्मामु॒षस॑: सूदय॒न्त्वति॒ विश्वा॑नि दुरि॒तानि॑ पर्षन् ॥
āśúṃ dadhikrā́ṃ tám u nu ṣṭávāma divás pṛthivyā́ utá carkirāma | ucchántīr mām uṣásaḥ sūdayantv áti víśvāni duritā́ni parṣan ||
The swift Dadhikrā—him now will we praise, and we will proclaim him from Heaven and from Earth. May the Dawns rising awaken me, and may they carry me beyond all the difficult passages and wrong movements.
आ॒शुम् । द॒धि॒ऽक्राम् । तम् । ऊँ॒ इति॑ । नु । स्त॒वा॒म॒ । दि॒वः । पृ॒थि॒व्याः । उ॒त । च॒र्कि॒रा॒म॒ । उ॒च्छन्तीः॑ । माम् । उ॒षसः॑ । सू॒द॒य॒न्तु॒ । अति॑ । विश्वा॑नि । दुः॒ऽइ॒तानि॑ । प॒र्ष॒न् ॥आशुम् । दधिक्राम् । तम् । ऊँ इति । नु । स्तवाम । दिवः । पृथिव्याः । उत । चर्किराम । उच्छन्तीः । माम् । उषसः । सूदयन्तु । अति । विश्वानि । दुःइतानि । पर्षन् ॥āśum | dadhi-krām | tam | oṃ iti | nu | stavāma | divaḥ | pṛthivyāḥ | uta | carkirāma | ucchantīḥ | mām | uṣasaḥ | sūdayantu | ati | viśvāni | duḥ-itāni | parṣan