Sukta 4.32
स नश्चित्राभिरद्रिवोऽनवद्याभिरूतिभिः । अनाधृष्टाभिरा गहि ॥
स न॑श्चि॒त्राभि॑रद्रिवोऽनव॒द्याभि॑रू॒तिभि॑: । अना॑धृष्टाभि॒रा ग॑हि ॥
sa naś citrā́bhir adrivo ’navadyā́bhir ūtíbhíḥ | anā́dhṛṣṭābhir ā́ gahi ||
Come to us, O Indra, wielder of the pressing-stone, with thy many-hued, faultless powers of help—helpers that cannot be shaken or overborne—come hither into our being.
सः । नः॒ । चि॒त्राभिः॑ । अ॒द्रि॒ऽवः॒ । अ॒न॒व॒द्याभिः॑ । ऊ॒तिऽभिः॑ । अना॑धृष्टाभिः । आ । ग॒हि॒ ॥सः । नः । चित्राभिः । अद्रिवः । अनवद्याभिः । ऊतिभिः । अनाधृष्टाभिः । आ । गहि ॥saḥ | naḥ | citrābhiḥ | adri-vaḥ | anavadyābhiḥ | ūti-bhiḥ | anādhṛṣṭābhiḥ | ā | gah i