Sukta 4.32
अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः । सोमानामिन्द्र सोमपाः ॥
अ॒र्वा॒ची॒नो व॑सो भवा॒स्मे सु म॒त्स्वान्ध॑सः । सोमा॑नामिन्द्र सोमपाः ॥
arvācīnó vaso bhavā́sme sú matsv ā́ndhasaḥ | sómānām indra soma-pāḥ ||
Turn hitherward, O giver of riches, be with us; drink deep of the pressed delight of the Soma, O Indra, Soma-drinker.
अ॒र्वा॒ची॒नः । व॒सो॒ इति॑ । भ॒व॒ । अ॒स्मे इति॑ । सु । म॒त्स्व॒ । अन्ध॑सः । सोमा॑नाम् । इ॒न्द्र॒ । सो॒म॒ऽपाः॒ ॥अर्वाचीनः । वसो इति । भव । अस्मे इति । सु । मत्स्व । अन्धसः । सोमानाम् । इन्द्र । सोमपाः ॥arvācīnaḥ | vaso iti | bhava | asme iti | su | matsva | andhasaḥ | somānām | indra | soma-pāḥ