Sukta 4.31
अभी षु णः सखीनामविता जरितॄणाम् । शतं भवास्यूतिभिः ॥
अ॒भी षु ण॒: सखी॑नामवि॒ता ज॑रितॄ॒णाम् । श॒तं भ॑वास्यू॒तिभि॑: ॥
abhī́ ṣú ṇaḥ sákhīnām avitā́ jaritṝṇā́m | śatáṃ bhavāsy ūtíbhīḥ ||
Be indeed the helper of our comrades and the protector of the singers; become for us a hundredfold in your succours—multiplying the aids that uphold the soul’s advance.
अ॒भि । सु । नः॒ । सखी॑नाम् । अ॒वि॒ता । ज॒रि॒तॄ॒णाम् । श॒तम् । भ॒वा॒सि॒ । ऊ॒तिऽभिः॑ ॥अभि । सु । नः । सखीनाम् । अविता । जरितॄणाम् । शतम् । भवासि । ऊतिभिः ॥abhi | su | naḥ | sakhīnām | avitā | jaritṝṇām | śatam | bhavāsi | ūti-bhiḥ