Sukta 4.31
कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः । दृळ्हा चिदारुजे वसु ॥
कस्त्वा॑ स॒त्यो मदा॑नां॒ मंहि॑ष्ठो मत्स॒दन्ध॑सः । दृ॒ळ्हा चि॑दा॒रुजे॒ वसु॑ ॥
kás tvā satyó madā́nāṃ maṃhíṣṭho matsád ándhasaḥ | dṛḷhā́ cid ā́ruje vásu ||
Who, true to the ecstasies, most bounteous, can satisfy you with the delight-essence and so break open even the firm-held treasures of being?
कः । त्वा॒ । स॒त्यः । मदा॑नाम् । मंहि॑ष्ठः । म॒त्स॒त् । अन्ध॑सः । दृ॒ळ्हा । चि॒त् । आ॒ऽरुजे॑ । वसु॑ ॥कः । त्वा । सत्यः । मदानाम् । मंहिष्ठः । मत्सत् । अन्धसः । दृळ्हा । चित् । आरुजे । वसु ॥kaḥ | tvā | satyaḥ | madānām | maṃhiṣṭhaḥ | matsat | andhasaḥ | dṛḷhā | cit | āruje | vasu