Sukta 4.31
अस्माकं धृष्णुया रथो द्युमाँ इन्द्रानपच्युतः । गव्युरश्वयुरीयते ॥
अ॒स्माकं॑ धृष्णु॒या रथो॑ द्यु॒माँ इ॒न्द्रान॑पच्युतः । ग॒व्युर॑श्व॒युरी॑यते ॥
asmā́kaṃ dhṛṣṇu-yā́ rátho dyumā́m̐ indrā́napacyutaḥ | gavyúr aśvayúr ī́yate ||
Our chariot of daring force, luminous and, O Indra, unshaken, moves forward seeking the rays of Light and the powers of swift energy.
अ॒स्माक॑म् । धृ॒ष्णु॒ऽया । रथः॑ । द्यु॒ऽमान् । इ॒न्द्र॒ । अन॑पऽच्युतः । ग॒व्युः । अ॒श्व॒युः । ई॒य॒ते॒ ॥अस्माकम् । धृष्णुया । रथः । द्युमान् । इन्द्र । अनपच्युतः । गव्युः । अश्वयुः । ईयते ॥asmākam | dhṛṣṇu-yā | rathaḥ | dyu-mān | indra | anapa-cyutaḥ | gavyuḥ | aśvayuḥ | īyate