Sukta 4.30
एतदस्या अनः शये सुसम्पिष्टं विपाश्या । ससार सीं परावतः ॥
ए॒तद॑स्या॒ अन॑: शये॒ सुस॑म्पिष्टं॒ विपा॒श्या । स॒सार॑ सीं परा॒वत॑: ॥
etád asyā́ ánāḥ śáye súsampiṣṭaṃ vípāśyā | sasā́ra sī́ṃ parāvátaḥ ||
This is her cart lying there, well-crushed; and she, seeing clearly, has run away from afar.
ए॒तत् । अ॒स्याः॒ । अनः॑ । श॒ये॒ । सुऽस॑म्पिष्टम् । विऽपा॑शि । आ । स॒सार॑ । सी॒म् । प॒रा॒ऽवतः॑ ॥एतत् । अस्याः । अनः । शये । सुसम्पिष्टम् । विपाशि । आ । ससार । सीम् । परावतः ॥etat | asyāḥ | anaḥ | śaye | su-sampiṣṭam | vi-pāśi | ā | sasāra | sīm | parāvataḥ