Sukta 4.3
कथा शर्धाय मरुतामृताय कथा सूरे बृहते पृच्छ्यमानः । प्रति ब्रवोऽदितये तुराय साधा दिवो जातवेदश्चिकित्वान् ॥
क॒था शर्धा॑य म॒रुता॑मृ॒ताय॑ क॒था सू॒रे बृ॑ह॒ते पृ॒च्छ्यमा॑नः । प्रति॑ ब्र॒वोऽदि॑तये तु॒राय॒ साधा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् ॥
kathā́ śárdhāya marútām ṛtā́ya kathā́ sūré bṛhaté pṛcchyámānaḥ | práti brávo áditaye turā́ya sā́dha divó jāta-vedaś cikitvā́n ||
How will you answer the troop of the Maruts in their rightness; how the great Sun when questioned? Speak back to Aditi, the swift, and accomplish it, O Jātavedas, the knower—make firm the heavenward fulfillment.
क॒था । शर्धा॑य । म॒रुता॑म् । ऋ॒ताय॑ । क॒था । सू॒रे । बृ॒ह॒ते । पृ॒च्छ्यमा॑नः । प्रति॑ । ब्र॒वः॒ । अदि॑तये । तु॒राय॑ । साध॑ । दि॒वः । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ॥कथा । शर्धाय । मरुताम् । ऋताय । कथा । सूरे । बृहते । पृच्छ्यमानः । प्रति । ब्रवः । अदितये । तुराय । साध । दिवः । जातवेदः । चिकित्वान् ॥kathā | śardhāya | marutām | ṛtāya | kathā | sūre | bṛhate | pṛcchyamānaḥ | prati | bravaḥ | aditaye | turāya | sādha | divaḥ | jāta-vedaḥ | cikitvān