Sukta 4.3
एभिर्भव सुमना अग्ने अर्कैरिमान्त्स्पृश मन्मभिः शूर वाजान् । उत ब्रह्माण्यङ्गिरो जुषस्व सं ते शस्तिर्देववाता जरेत ॥
ए॒भिर्भ॑व सु॒मना॑ अग्ने अ॒र्कैरि॒मान्त्स्पृ॑श॒ मन्म॑भिः शूर॒ वाजा॑न् । उ॒त ब्रह्मा॑ण्यङ्गिरो जुषस्व॒ सं ते॑ श॒स्तिर्दे॒ववा॑ता जरेत ॥
ebhír bhava su-mánā agne arkáir imā́nt spṛśa mánma-bhiḥ śūra vājā́n | utá bráhmāṇy aṅgiro juṣásva sáṃ te śastír deva-vātā jaretá ||
With these hymns be of a happy mind, O Agni; touch these plenitudes with our thoughts, O hero. And accept, O Angiras, the sacred formulations; so may thy inspired praise, driven by the Gods, grow ripe in thee.
ए॒भिः । भ॒व॒ । सु॒ऽमनाः॑ । अ॒ग्ने॒ । अ॒र्कैः । इ॒मान् । स्पृ॒श॒ । मन्म॑ऽभिः । शू॒र॒ । वाजा॑न् । उ॒त । ब्रह्मा॑णि । अ॒ङ्गि॒रः॒ । जु॒ष॒स्व॒ । सम् । ते॒ । श॒स्तिः । दे॒ववा॑ता । ज॒रे॒त॒ ॥एभिः । भव । सुमनाः । अग्ने । अर्कैः । इमान् । स्पृश । मन्मभिः । शूर । वाजान् । उत । ब्रह्माणि । अङ्गिरः । जुषस्व । सम् । ते । शस्तिः । देववाता । जरेत ॥ebhiḥ | bhava | su-manāḥ | agne | arkaiḥ | imān | spṛśa | manma-bhiḥ | śūra | vājān | uta | brahmāṇi | aṅgiraḥ | juṣasva | sam | te | śastiḥ | devavātā | jareta