Sukta 4.3
एता विश्वा विदुषे तुभ्यं वेधो नीथान्यग्ने निण्या वचांसि । निवचना कवये काव्यान्यशंसिषं मतिभिर्विप्र उक्थैः ॥
ए॒ता विश्वा॑ वि॒दुषे॒ तुभ्यं॑ वेधो नी॒थान्य॑ग्ने नि॒ण्या वचां॑सि । नि॒वच॑ना क॒वये॒ काव्या॒न्यशं॑सिषं म॒तिभि॒र्विप्र॑ उ॒क्थैः ॥
etā́ víśvā vidúṣe túbhyaṃ vedho nīthā́ny agne niṇyā́ vácāṃsi | ní-vacanā kaváye kā́vyāny áśaṃsiṣaṃ matí-bhir vípra ukthaíḥ ||
All these guiding leadings and hidden words I have fashioned for thee, O Agni, who knowest—O disposer. Secret utterances and poetic truths for the seer; with thoughts and inspired hymns I have proclaimed them.
ए॒ता । विश्वा॑ । वि॒दुषे॑ । तुभ्य॑म् । वे॒धः॒ । नी॒थानि॑ । अ॒ग्ने॒ । नि॒ण्या । वचां॑सि । नि॒ऽवच॑ना । क॒वये॑ । काव्या॑नि । अशं॑सिषम् । म॒तिऽभिः॑ । विप्रः॑ । उ॒क्थैः ॥एता । विश्वा । विदुषे । तुभ्यम् । वेधः । नीथानि । अग्ने । निण्या । वचांसि । निवचना । कवये । काव्यानि । अशंसिषम् । मतिभिः । विप्रः । उक्थैः ॥etā | viśvā | viduṣe | tubhyam | vedhaḥ | nīthāni | agne | niṇyā | vacāṃsi | ni-vacanā | kavaye | kāvyāni | aśaṃsiṣam | mati-bhiḥ | vipraḥ | ukthaiḥ