Sukta 4.3
रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख प्रीणानः । प्रति ष्फुर वि रुज वीड्वंहो जहि रक्षो महि चिद्वावृधानम् ॥
रक्षा॑ णो अग्ने॒ तव॒ रक्ष॑णेभी रारक्षा॒णः सु॑मख प्रीणा॒नः । प्रति॑ ष्फुर॒ वि रु॑ज वी॒ड्वंहो॑ ज॒हि रक्षो॒ महि॑ चिद्वावृधा॒नम् ॥
rákṣā no agne táva rákṣaṇebhī rārakṣāṇáḥ su-makha prīṇānáḥ | práti sphura ví ruja vīḷv áṃho jahí rákṣo máhi cit vāvṛdhānáṃ ||
Guard us, O Agni, with thy powers of guarding—guarding us, O fair-faced, rejoicing. Smite back, break apart the dense evil; slay the Rakṣas even if it has grown vast and strong.
रक्षा॑णः । अ॒ग्ने॒ । तव॑ । रक्ष॑णेभिः । र॒र॒क्षा॒णः । सु॒ऽम॒ख॒ । प्री॒णा॒नः । प्रति॑ । स्फु॒र॒ । वि । रु॒ज॒ । वी॒ळु । अंहः॑ । ज॒हि । रक्षः॑ । महि॑ । चित् । व॒वृ॒धा॒नम् ॥रक्षाणः । अग्ने । तव । रक्षणेभिः । ररक्षाणः । सुमख । प्रीणानः । प्रति । स्फुर । वि । रुज । वीळु । अंहः । जहि । रक्षः । महि । चित् । ववृधानम् ॥rakṣāṇaḥ | agne | tava | rakṣaṇebhiḥ | rarakṣāṇaḥ | su-makha | prīṇānaḥ | prati | sphura | vi | ruja | vīḷu | aṃhaḥ | jahi | rakṣaḥ | mahi | cit | vavṛdhānam