Sukta 4.3
ऋतेन देवीरमृता अमृक्ता अर्णोभिरापो मधुमद्भिरग्ने । वाजी न सर्गेषु प्रस्तुभानः प्र सदमित्स्रवितवे दधन्युः ॥
ऋ॒तेन॑ दे॒वीर॒मृता॒ अमृ॑क्ता॒ अर्णो॑भि॒रापो॒ मधु॑मद्भिरग्ने । वा॒जी न सर्गे॑षु प्रस्तुभा॒नः प्र सद॒मित्स्रवि॑तवे दधन्युः ॥
ṛténa devī́r amṛ́tā amṛ́ktā árṇo-bhir ā́po mádhu-madbhir agne | vājī́ ná sárgeṣu pra-stubhānáḥ prá sádám ít srávitave dadhanyúḥ ||
By Ṛta the divine Waters—immortal and unmingled—move with their streams of sweetness, O Agni. Like a warrior-horse in the onrushes, sounding forth, they press ever forward to flow out in a constant outpouring.
ऋ॒तेन॑ । दे॒वीः । अ॒मृताः॑ । अमृ॑क्ताः । अर्णः॑ऽभिः । आपः॑ । मधु॑मत्ऽभिः । अ॒ग्ने॒ । वा॒जी । न । सर्गे॑षु । प्र॒ऽस्तु॒भा॒नः । प्र । सद॑म् । इत् । स्रवि॑तवे । द॒ध॒न्यु॒ह् ॥ऋतेन । देवीः । अमृताः । अमृक्ताः । अर्णःभिः । आपः । मधुमत्भिः । अग्ने । वाजी । न । सर्गेषु । प्रस्तुभानः । प्र । सदम् । इत् । स्रवितवे । दधन्युह् ॥ṛtena | devīḥ | amṛtāḥ | amṛktāḥ | arṇaḥ-bhiḥ | āpaḥ | madhumat-bhiḥ | agne | vājī | na | sargeṣu | pra-stubhānaḥ | pra | sadam | it | sravitave | dadhanyuh