Sukta 4.3
ऋतेनाद्रिं व्यसन्भिदन्तः समङ्गिरसो नवन्त गोभिः । शुनं नरः परि षदन्नुषासमाविः स्वरभवज्जाते अग्नौ ॥
ऋ॒तेनाद्रिं॒ व्य॑सन्भि॒दन्त॒: समङ्गि॑रसो नवन्त॒ गोभि॑: । शु॒नं नर॒: परि॑ षदन्नु॒षास॑मा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ ॥
ṛténá adríṃ ví asan bhidántaḥ sámaṅgirasaḥ navanta gó-bhiḥ | śunáṃ nárāḥ pári ṣadan uṣásam āvíḥ svàr abhavat jāté agnáu ||
By the power of Ṛta they cleft the rock asunder; the Angirases together pressed forward with the rays of Light. The strong ones sat around the Dawn in a happy wideness; and the luminous Heaven (Svar) became manifest when Agni was born within.
ऋतेन॑ । अद्रि॑म् । वि । अ॒स॒न् । भि॒दन्तः॑ । सम् । अङ्गि॑रसः । न॒व॒न्त॒ । गोऽभिः॑ । शु॒नम् । नरः॑ । परि॑ । स॒द॒न् । उ॒षस॑म् । आ॒विः । स्वः॑ । अ॒भ॒व॒त् । जा॒ते । अ॒ग्नौ ॥ऋतेन । अद्रिम् । वि । असन् । भिदन्तः । सम् । अङ्गिरसः । नवन्त । गोभिः । शुनम् । नरः । परि । सदन् । उषसम् । आविः । स्वः । अभवत् । जाते । अग्नौ ॥ṛtena | adrim | vi | asan | bhidantaḥ | sam | aṅgirasaḥ | navanta | go--bhiḥ | śunam | naraḥ | pari | sadan | uṣasam | āviḥ | svaḥ | abhavat | jāte | agnau