Sukta 4.3
ऋतेन हि ष्मा वृषभश्चिदक्तः पुमाँ अग्निः पयसा पृष्ठ्येन । अस्पन्दमानो अचरद्वयोधा वृषा शुक्रं दुदुहे पृश्निरूधः ॥
ऋ॒तेन॒ हि ष्मा॑ वृष॒भश्चि॑द॒क्तः पुमाँ॑ अ॒ग्निः पय॑सा पृ॒ष्ठ्ये॑न । अस्प॑न्दमानो अचरद्वयो॒धा वृषा॑ शु॒क्रं दु॑दुहे॒ पृश्नि॒रूध॑: ॥
ṛténa hí ṣmā vṛṣabháś cid aktáḥ pumā́ṃ agníḥ páyasā pṛṣṭhyéna | áspandamāno acarad vayo-dhā́ vṛ́ṣā śukráṃ duduhé pṛ́śnir ū́dhaḥ ||
For by the Truth indeed even the Bull is anointed: Agni the male, with the milk upon his back. Unshaking he moves, the giver of plenitudes; the Bull has milked out the bright, and the dappled one her udder.
ऋ॒तेनः॑ । हि । स्म॒ । वृ॒ष॒भः । चि॒त् । अ॒क्तः । पुमा॑न् । अ॒ग्निः । पय॑सा । पृ॒ष्ट्ये॑न । अस्प॑न्दमानः । अ॒च॒र॒त् । व॒यः॒ऽधाः । वृषा॑ । शु॒क्रम् । दु॒दु॒हे॒ । पृश्निः॑ । ऊधः॑ ॥ऋतेनः । हि । स्म । वृषभः । चित् । अक्तः । पुमान् । अग्निः । पयसा । पृष्ट्येन । अस्पन्दमानः । अचरत् । वयःधाः । वृषा । शुक्रम् । दुदुहे । पृश्निः । ऊधः ॥ṛtenaḥ | hi | sma | vṛṣabhaḥ | cit | aktaḥ | pumān | agniḥ | payasā | pṛṣṭyena | aspandamānaḥ | acarat | vayaḥ-dhāḥ | vṛṣā | śukram | duduhe | pṛśniḥ | ūdhaḥ