Sukta 4.28
विश्वस्मात्सीमधमाँ इन्द्र दस्यून्विशो दासीरकृणोरप्रशस्ताः । अबाधेथाममृणतं नि शत्रूनविन्देथामपचितिं वधत्रैः ॥
विश्व॑स्मात्सीमध॒माँ इ॑न्द्र॒ दस्यू॒न्विशो॒ दासी॑रकृणोरप्रश॒स्ताः । अबा॑धेथा॒ममृ॑णतं॒ नि शत्रू॒नवि॑न्देथा॒मप॑चितिं॒ वध॑त्रैः ॥
víśvasmāt sīm adhamā́n índra dásyūn víśo dā́sīr akṛṇor apraśastā́ḥ | abā́dhethām amṛ́ṇataṃ ní śátrūn avíndethām ápa-citiṃ vádhatraiḥ ||
From every side, O Indra, you press down the Dasyus (powers of obscurity) and you turn the peoples into servitudes that do not praise the Truth. You and your force beat back and crush the enemies within; by your instruments of decisive action you recover the ‘apaciti’—the lost right ordering and clear discernment that had been taken away.
विश्व॑स्मात् । सी॒म् । अ॒ध॒मान् । इ॒न्द्र॒ । दस्यू॑न् । विशः॑ । दासीः॑ । अ॒कृ॒णोः॒ । अ॒प्र॒ऽश॒स्ताः । अबा॑धेथाम् । अमृ॑णतम् । नि । शत्रू॑न् । अवि॑न्देथाम् । अप॑ऽचितिम् । वध॑त्रैः ॥विश्वस्मात् । सीम् । अधमान् । इन्द्र । दस्यून् । विशः । दासीः । अकृणोः । अप्रशस्ताः । अबाधेथाम् । अमृणतम् । नि । शत्रून् । अविन्देथाम् । अपचितिम् । वधत्रैः ॥viśvasmāt | sīm | adhamān | indra | dasyūn | viśaḥ | dāsīḥ | akṛṇoḥ | apra-śastāḥ | abādhethām | amṛṇatam | ni | śatrūn | avindethām | apa-citim | vadhatraiḥ