Sukta 4.28
एवा सत्यं मघवाना युवं तदिन्द्रश्च सोमोर्वमश्व्यं गोः । आदर्दृतमपिहितान्यश्ना रिरिचथुः क्षाश्चित्ततृदाना ॥
ए॒वा स॒त्यं म॑घवाना यु॒वं तदिन्द्र॑श्च सोमो॒र्वमश्व्यं॒ गोः । आद॑र्दृत॒मपि॑हिता॒न्यश्ना॑ रिरि॒चथु॒: क्षाश्चि॑त्ततृदा॒ना ॥
evā́ satyáṃ maghavānā yuváṃ tád índraś ca soma úrvam aśvyáṃ góḥ | ā́ dardṛtám apihitā́ny aśnā́ riricathúḥ kṣā́ś cit tatṛdānā́ ||
Thus indeed it is Truth, O two lords of plenitude: Indra and Soma—you opened out the wide field of the Cow (the luminous knowledge) and its swift movements. You broke open what was hardened and removed the coverings; even the earth’s resistances you pierced through, releasing what had been shut in.
ए॒व । स॒त्यम् । म॒घ॒वा॒ना॒ । यु॒वम् । तत् । इन्द्रः॑ । च॒ । सो॒म॒ । ऊ॒र्वम् । अश्व्य॑म् । गोः । आ । अ॒द॒र्दृ॒त॒म् । अपि॑ऽहितानि । अश्ना॑ । रि॒रि॒चथुः॑ । क्षाः । चि॒त् । त॒तृ॒दा॒ना ॥एव । सत्यम् । मघवाना । युवम् । तत् । इन्द्रः । च । सोम । ऊर्वम् । अश्व्यम् । गोः । आ । अदर्दृतम् । अपिहितानि । अश्ना । रिरिचथुः । क्षाः । चित् । ततृदाना ॥eva | satyam | maghavānā | yuvam | tat | indraḥ | ca | soma | ūrvam | aśvyam | goḥ | ā | adardṛtam | api-hitāni | aśnā | riricathuḥ | kṣāḥ | cit | tatṛdānā