Sukta 4.28
त्वा युजा नि खिदत्सूर्यस्येन्द्रश्चक्रं सहसा सद्य इन्दो । अधि ष्णुना बृहता वर्तमानं महो द्रुहो अप विश्वायु धायि ॥
त्वा यु॒जा नि खि॑द॒त्सूर्य॒स्येन्द्र॑श्च॒क्रं सह॑सा स॒द्य इ॑न्दो । अधि॒ ष्णुना॑ बृह॒ता वर्त॑मानं म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि ॥
tvā́ yujā́ ní khidat sū́ryasya índraś cakráṃ sáhasā sadyá índo | ádhi ṣṇúnā br̥hatā́ vártamānaṃ mahó drúho ápa viśvā́yu dhāyi ||
With you as yoked companion, O Indu, Indra by force drove down the wheel of the Sun (the fixed turning of the ordinary light). Moving upon the Vast summit, he put away the great falsehoods and hostilities from the all-life—so a truer illumination may govern the whole being.
त्वा । यु॒जा । नि । खि॒द॒त् । सूर्य॑स्य । इन्द्रः॑ । च॒क्रम् । सह॑सा । स॒द्यः । इ॒न्दो॒ इति॑ । अधि॑ । स्नुना॑ । बृ॒ह॒ता । वर्त॑मानम् । म॒हः । द्रु॒हः । अप॑ । वि॒श्वऽआ॑यु । धा॒यि॒ ॥त्वा । युजा । नि । खिदत् । सूर्यस्य । इन्द्रः । चक्रम् । सहसा । सद्यः । इन्दो इति । अधि । स्नुना । बृहता । वर्तमानम् । महः । द्रुहः । अप । विश्वआयु । धायि ॥tvā | yujā | ni | khidat | sūryasya | indraḥ | cakram | sahasā | sadyaḥ | indo iti | adhi | snunā | bṛhatā | vartamānam | mahaḥ | druhaḥ | apa | viśva-āyu | dhāyi