Sukta 4.28
त्वा युजा तव तत्सोम सख्य इन्द्रो अपो मनवे सस्रुतस्कः । अहन्नहिमरिणात्सप्त सिन्धूनपावृणोदपिहितेव खानि ॥
त्वा यु॒जा तव॒ तत्सो॑म स॒ख्य इन्द्रो॑ अ॒पो मन॑वे स॒स्रुत॑स्कः । अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू॒नपा॑वृणो॒दपि॑हितेव॒ खानि॑ ॥
tvā́ yujā́ táva tát soma sakhyé índro apó mánave sasrútaskaḥ | áhann áhim áriṇāt saptá síndhūn ápāvṛṇod ápihiteva khā́ni ||
With you as his yoke-fellow, in that friendship, O Soma, Indra set the waters flowing for Manu. He slew the constrictor and released the seven rivers; he opened the blocked channels as if uncovering what had been shut—so the currents of life and knowledge may run in the law of Truth.
त्वा । यु॒जा । तव॑ । तत् । सो॒म॒ । स॒ख्ये । इन्द्रः॑ । अ॒पः । मन॑वे । स॒ऽस्रुतः॑ । क॒रिति॑ कः । अह॒न् । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । अप॑ । अ॒वृ॒णो॒त् । अपि॑हिताऽइव । खानि॑ ॥त्वा । युजा । तव । तत् । सोम । सख्ये । इन्द्रः । अपः । मनवे । सस्रुतः । करिति कः । अहन् । अहिम् । अरिणात् । सप्त । सिन्धून् । अप । अवृणोत् । अपिहिताइव । खानि ॥tvā | yujā | tava | tat | soma | sakhye | indraḥ | apaḥ | manave | sa-srutaḥ | karitikaḥ | ahan | ahim | ariṇāt | sapta | sindhūn | apa | avṛṇot | apihitāiva | khāni