Sukta 4.27
गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा । शतं मा पुर आयसीररक्षन्नध श्येनो जवसा निरदीयम् ॥
गर्भे॒ नु सन्नन्वे॑षामवेदम॒हं दे॒वानां॒ जनि॑मानि॒ विश्वा॑ । श॒तं मा॒ पुर॒ आय॑सीररक्ष॒न्नध॑ श्ये॒नो ज॒वसा॒ निर॑दीयम् ॥
gárbhe nú sán anvéṣām avedam aháṃ devā́nāṃ jánimāni víśvā | śatáṃ mā púra ā́yasīr arakṣann ádha śyéno jávasā nír adīyam ||
Even while I was in the womb, I came to know by seeking all the births of the gods. A hundred iron fortresses guarded me; then as the Falcon, by speed of force, I broke out and flew forth—freeing the hidden knower from the imprisoning walls.
गर्भे॑ । नु । सन् । अनु॑ । ए॒षा॒म् । अ॒वे॒द॒म् । अ॒हम् । दे॒वाना॑म् । जनि॑मानि । विश्वा॑ । श॒तम् । मा॒ । पुरः॑ । आय॑सीः । अ॒र॒क्ष॒न् । अध॑ । श्ये॒नः । ज॒वसा॑ । निः । अ॒दी॒य॒म् ॥गर्भे । नु । सन् । अनु । एषाम् । अवेदम् । अहम् । देवानाम् । जनिमानि । विश्वा । शतम् । मा । पुरः । आयसीः । अरक्षन् । अध । श्येनः । जवसा । निः । अदीयम् ॥garbhe | nu | san | anu | eṣām | avedam | aham | devānām | janimāni | viśvā | śatam | mā | puraḥ | āyasīḥ | arakṣan | adha | śyenaḥ | javasā | niḥ | adīyam